ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
यन्त्राज्जातं पुनर्यन्त्रं जातं मूलं च कल्पयेत् ।
योऽन्तः स एव चारम्भः पुनरादौ प्रवर्तते ॥
यो रश्मिरीक्षितुं याति स पश्यन्नपि लेखकः ।
तत्कृता विक्रिया बिम्बं प्रश्नेनोत्तरमाकृतम् ॥
स्वेऽनन्तर्भाविनः सर्वान्गणान्संगृह्य पृच्छतु ।
अन्तःस्थो यदि बाह्यः स्याद्बाह्यश्चेदन्तरे स्थितः ॥
या संख्या नोच्यते शब्दैश्शतादूनैः कनिष्ठिका ।
अष्टभिः सा पदैरुक्तेत्युक्ता तेनैव नोच्यते ॥
यन्त्रस्य यद्यदङ्गं स्यात्तत्र स्वं कृतमर्प्यते ।
सर्वेष्वङ्गेषु नव्येषु तदेवान्यच्च सर्वतः ॥
त्रीणि वक्राणि पट्टानि घर्षयेद्द्वन्द्वशः क्रमात् ।
नासीत्समं यतः शिक्षा तथापि समतां ययुः ॥
न न्यायः स्वेन साध्यः स्यादप्राप्या भूमिरस्य हि ।
अणून्यन्त्रैरतः पृच्छेत्स्थिरानस्मत्कृतैस्तु तैः ॥
पूर्वज्ञातं न वार्ता स्यात्पङ्क्तिरत्राल्पविस्मयः ।
केवलाश्चर्यमारावः संदेशो मध्यमाश्रितः ॥
अदृष्टाः सर्वभूमौ स्मः पश्यैकैकोऽथ नाम हि ।
अधः सूची तवैवेयं पुरा मानात्तु धूसराः ॥
प्रश्नं नास्माभिरप्युक्तमस्मान्प्राप्तुं समाहर ।
दास्यामः प्रतिवाक्यं च द्वावप्यधिकभागिनौ ॥
पदं पूर्वं तरत्यर्धमर्धस्यार्धमनन्तशः ।
अष्टभिस्तु पदं पूर्णमन्त्या मात्रादिमा पुनः ॥
प्रतिज्ञा छन्दसीदं स्याद्धेतुर्लघुगुरुक्रमः ।
यथा गीता तथा चेदं तस्माच्छन्दसि निश्चितम् ॥
- अथर्व शुक्ल